|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.86. अध्यायः 086
Mahabharata - Drona Parva - Chapter Topics
सञ्जयेन धृतराष्ट्रोपालम्भपूर्वकं युद्धकथनोपक्रमः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-86-0x(4485)(47960)
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान्।
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान्॥ 7-86-1(47961)
गतोदके सेतुबन्धो यादृक्तादृगयं तव।
विलापो निष्फलो राजन्मा शुचो भरतर्षभ॥ 7-86-2(47962)
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः।
मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम्॥ 7-86-3(47963)
यदि त्वं हि पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम्।
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत्॥ 7-86-4(47964)
युद्धकाले पुनः प्राप्ते तदैव भवता यदि।
निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत्॥ 7-86-5(47965)
दुर्योधनं चाविधेयं बध्नीयास्त्वं पुरा यदि।
अवेक्ष्य कौरवान्राजन्प्राप्स्यसे त्वं महद्यशः॥ 7-86-6(47966)
तत्ते बुद्धिव्यतीचारमुपलप्स्यन्ति तज्जनाः।
पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि नराधिपाः॥ 7-86-7(47967)
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे।
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत्॥ 7-86-8(47968)
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम्।
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम्॥ 7-86-9(47969)
तत्ते विलपितं सर्वं मया राजन्निशामितम्।
अर्थे निविशमानस्य विषमिश्रं यथा मधु॥ 7-86-10(47970)
न तथा मन्यते कृष्णो न च राजा युधिष्ठिरः।
न भीष्मो नैव च द्रोणो यथा त्वं मन्यसे नृप॥ 7-86-11(47971)
व्यजानीत यदा तु त्वां लुब्धं धर्मप्रवादिनम्।
तदाप्रभृति कृष्मस्त्वां न तथा बहुमन्यते॥ 7-86-12(47972)
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे।
तस्यानुबन्धः प्राप्तस्त्वां पुत्रामां राज्यकामुक॥ 7-86-13(47973)
पितृपैतामहं राज्यमपावृत्तं त्वयाऽनघ।
अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः॥ 7-86-14(47974)
पाण्डुना निर्जितं राज्यं कौरवाणां यशस्तथा।
एतच्चाप्यधिकं भूयः पाण्डवैर्धर्मचाखिभिः॥ 7-86-15(47975)
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम्।
यत्पित्र्याद्धंशिता राज्यात्त्वयेहामिषगृद्धिना॥ 7-86-16(47976)
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप।
बहुधा व्याहरन्दोषान्न तदद्योपपद्यते॥ 7-86-17(47977)
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे।
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः॥ 7-86-18(47978)
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ।
रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवात्॥ 7-86-19(47979)
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः।
येषां च सात्यकिर्योद्धा येषां योद्धा वृकोदरः॥ 7-86-20(47980)
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः।
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः॥ 7-86-21(47981)
यावत्तु शक्यते कर्तुमन्तरज्ञैर्जनाधिपैः।
क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः॥ 7-86-22(47982)
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम्।
कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः॥ ॥ 7-86-23(47983)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि ष़डशीतितमोऽध्यायः॥ 86 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-86-17 ते तव बुद्धेर्व्यतिचारं वैषम्यमुपलप्स्यन्त्यनुभविष्यन्ति॥ 5-86-13 अर्थे निविशमानानां यथा पार्थानुपेक्षसे इति क.ट. पाठः॥ 5-86-22 अन्तरज्ञैरवसरवेदिभिः॥ 5-86-86 षडशीतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|